महाविद्यालयः संस्कृतशास्त्रेषु निहितस्य ज्ञानस्य विज्ञानस्य च प्रसाराय निरन्तरं कार्यं कुर्वन् अस्ति । अतः महाविद्यालयः आदर्शनामिकां वार्षिकपत्रिकां प्रकाशयति । विदुषः प्राध्यापकाः स्वस्य शोधपत्राणि शोधपत्रिकासु प्रकाशनार्थं प्रेषयन्ति । अस्यां पत्रिकायां विद्वद्भिः चिताः शोधलेखाः प्रकाशिताः भवन्ति ।
संस्कृताध्ययनक्षेत्रे शोधकर्तृभ्यः अन्तर्राष्ट्रीयं मञ्चम्प्रदातुं वयं प्रतिबद्धाः स्मः। वेदः, वैदिकसाहित्यम्, दर्शनम्, संस्कृतकाव्यशास्त्रम्, संस्कृतसाहित्यम्, संस्कृतव्याकरणम्, महाकाव्यम्, पुराणानि, ज्योतिषम्, तुलनात्मकं साहित्यम्, अन्तःशास्त्रीयादीनि सर्वाणि क्षेत्राणि आदाय संस्कृतसम्बद्धानां पत्राणां स्वागतं कुर्मः। विशिष्य प्राचीनभारतीयविज्ञानदर्शनसम्बद्धानि पत्राणि वयं प्रोत्साहयितुम् इच्छामः।
अतः प्रामाणिकानि विद्वत्तापूर्णानि अप्रकाशितानि शोधपत्राणि प्रकाशनाय आमंत्र्यन्ते। प्रकाशनार्थं प्रस्तूयमाणानां शोधपत्राणां मूल्याङ्कनं पत्रिकायाः निर्णायकैः क्रियते, अनुकूलटिप्पण्यादिमताम् एव पत्राणां प्रकाशनं क्रियते
ISSN: 2230-7427
© श्रीभगवानदासादर्शसंस्कृतमहाविद्यालयः, हरिद्वारम् (उत्तराखण्डः)
